अधिगमस्य प्रमुखत्रय: पक्षा:, आयामा: वा सन्ति । बालकस्य अधिगमस्य सर्वविधविकासनिमित्तमेतेषां त्रयाणां पक्षाणां समुचितविकासाय ब्लूम्स अधिगमवर्गीकरणं महदुपकरोति। ब्लूम उत्तरवर्तिजनै: अत्र महदनुसन्धानं विधाय परिष्कारो विहित: अधिगमोद्देश्यलेखनाय इदं वर्गीकरणमत्यन्तमुपकरोति। शिक्षणाभ्यासप्रसङगे छात्राध्यापकानां कृते विशिष्टोद्देश्यलेखनाय मार्गदर्शकत्वेन स्थीयते।